|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.21. अध्यायः 021
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
नारपर्वतादिभिर्धृतराष्ट्रादिदिदृक्ष्या शतयूपाश्रमं प्रत्यागमनम्॥ 1 ॥ नारदेन धृताराष्ट्रंप्रति तत्तपोवनस्यि सहस्रचि त्यादिराजर्षीणां स्वर्गप्रापकत्वमहिमोक्तिपूर्वकं विदुरादिभिः सह तस्यापि भविष्यत्सिद्धिप्रदत्वकथनम्॥ 2 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
ततस्तत्र मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः।
नारदः पर्वतश्चैव देवलश्च महातपाः॥ 16-21-1(97747)
द्वैपायनः सशिष्यश्च सिद्धाश्चान्ये मनीषिणः।
शतयूपश्च राजर्षिर्वृद्धः परमधार्मिकः॥ 16-21-2(97748)
तेषां कुन्ती महाराज पूजां चक्रे यथाविधि।
ते चापि तुतुषुस्तस्यास्तापसाः परिचर्यया॥ 16-21-3(97749)
तत्र धर्म्याः कथास्तात चक्रुस्ते परमर्षयः।
रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम्॥ 16-21-4(97750)
कथान्तरे तु कस्मिंश्चिद्देवर्षिर्नारदस्ततः।
कथामिमामकथयत्सर्वप्रत्यक्षदर्शिवान्॥ 16-21-5(97751)
नारद उवाच। 16-21-6x(8048)
पुरा प्रजापतिसमो राजाऽऽसीदकुतोभयः।
सहस्रचित्यि इत्युक्तः शतयूपपितामहः॥ 16-21-6(97752)
स पुत्रे राज्यमासज्ज्यि ज्येष्ठे परमधार्मिके।
सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः॥ 16-21-7(97753)
स गत्वा तपसः पारं दीप्तस्य वसुधाधिपः।
पुरंदरस्य संस्थानं प्रतिपेदे महाद्युतिः॥ 16-21-8(97754)
दृष्टपूर्वः स बहुशो राजन्सम्पतता मया।
महेन्द्रसदने राजा तपसा दग्धकिल्बिषः॥ 16-21-9(97755)
तथा शैलालयो राजा भगत्तपितामहः।
तपोबलेनैव नृपो महेन्द्रसदनं गतः॥ 16-21-10(97756)
तथा पृषध्रो राजाऽऽसीद्राजन्वज्रधरोपमः।
स चापि तपसा लेभे नाकपृष्ठमितो गतः॥ 16-21-11(97757)
अस्मिन्नरण्ये नृपते मांधातुरपि चात्मजः।
पुरुकुत्सो नृपः सिद्धिं महतीं समवाप्तवान्॥ 16-21-12(97758)
भार्या समभवद्यस्य नर्मदा सरितां वरा।
सोस्मिन्नरण्ये नृपतिस्तपस्तप्त्वा दिवं गतः॥ 16-21-13(97759)
शशलोमा च राजाऽऽसीद्राजन्परमधार्मिकः।
सम्यगस्मिन्वने तप्त्वा ततो दिवमवाप्तवान्॥ 16-21-14(97760)
द्वैपायनप्रसादाच्च त्वमपीदं तपोवनम्।
राजन्नवाप्य दुष्प्रापां सिद्धिमग्र्यां गमिष्यसि॥ 16-21-15(97761)
त्वं चापि राजशार्दूल तपसोन्ते श्रिया वृतः।
गान्धारीसहितो गन्ता गतिं तेषां महात्मनां 16-21-16(97762)
पाण्डुः स्मरति ते नित्यं बलहन्तुः समीपगः।
त्वां सदैव महाराज श्रेयसा स च योक्ष्यति॥ 16-21-17(97763)
तव शुश्रूषया चैव गान्धार्याश्च यशस्विनी।
भर्तुः सलोकतां कुन्ती गमिष्यति वधूस्तव॥ 16-21-18(97764)
युधिष्ठिरस्य जननी स हि धर्मः सनातनः।
वयमेतत्प्रपश्यामो नृपते दिव्यवक्षुषाः॥ 16-21-19(97765)
प्रवेक्ष्यति महात्मानं विदुरश्च युधिष्ठिरम्।
संजयस्तदनुध्यानादितः स्वर्गमवाप्स्यति॥ 16-21-20(97766)
वैशम्पायन उवाच। 16-21-21x(8049)
एतच्छ्रुत्वा कौरवेन्द्रो महात्मा
सार्धं पत्न्या प्रीतिमान्सम्बभूव।
विद्वान्वाक्यं नारदस्य प्रशस्य
चक्रे पूजां चातुलां नारदाय॥ 16-21-21(97767)
ततः सर्वे नारदं विप्रसङ्घाः
सम्पूजयामासुरतीव राजन्।
राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै
पुनःपुनः सम्प्रहृष्टास्तदानीम्॥ ॥ 16-21-22(97768)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि एकविंशोऽध्यायः॥ 21 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-21-11 तदा प्रवृद्धो राजसीदिति क.थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|